s-1
| पञ्चतन्त्रम् कथामुखम् |
s-2
| ओं नमः श्रीशारदागणपतिगुरुभ्यः । |
s-3
| महाकविभ्यो नमः। |
s-4
| ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिद्रः कुबेरः चन्द्रादित्यौ सरस्वत्यदधियुगनगा वायुरुर्वीभुजङ्गाः । |
s-5
| सिढा नद्यो श्विनौ श्रीर् दितिर् अदितिसुता मातरश् चंडिकाद्या वेदास्तीर्थानि यक्षा गणवसुमुनयः पन्तु नित्यं ग्रहाश्च ॥ |
s-6
| मनवे वाचस्पतये शुक्राय पराशराय ससुताय। |
s-7
| चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥ |
s-8
| सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिः एतत् चकार सुमनोहरं शास्त्रम् ॥ |
s-9
| तत् यथानुश्रूयते । |
s-10
| अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। |
s-11
| तत्र अमरशक्तिर् नाम्नः राजा बभूव। |
s-12
| तस्य त्रयः पुत्राः परमदुर्मेधसः वसुशक्तिः उग्रशक्तिः अनन्तशक्तिश् चेति बभूवुः। |
s-13
| अथ तान् शास्त्रविमुखान् समालोक्य स राजा सचिवान् आहूय प्रोवाच । |
s-14
| भोः, ज्ञातम् एतद् भवद्भिर्यन्ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च । |
s-15
| तत् एतान् पश्यतः मे महदपि राज्यम् न सौख्यम् आवहति । |
s-16
| अथवा साध्विदम् उच्यते - |
s-17
| अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम्। यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ |
s-18
| वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं वरं जातः प्रोतो वरमपि च कन्यैव जनिता। वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न चाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः॥ |
s-19
| तथा च |
s-20
| किम् तया क्रियते धेन्वा या न सूते न क्षीरम् ददाति। |
s-21
| कः अर्थः पुत्रेण जातेन यः न विद्वान् न भक्तिमान् अस्ति॥ |
s-22
| तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । |
s-23
| अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति। |
s-24
| ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति । |
s-25
| तत्रैकः सचिवः प्रोचुः |
s-26
| देव द्वादशभिर् वर्षैः व्याकरणम् श्रूयते । |
s-27
| ततो धर्मशास्त्राणि मन्वादीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि। |
s-28
| एवञ्च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते। |
s-29
| ततः बुद्धिप्रबोधनः भवति। |
s-30
| अथ तन्मध्यतः सुमतिनामामात्यः प्राह । |
s-31
| अशाश्वतो यं जीवितव्यविषयः । |
s-32
| प्रभूतकालज्ञेयानि शब्दशास्त्राणि । |
s-33
| तत् सङ्क्षेपमात्रम् शास्त्रम् किंचिद् एतेषाम् प्रबोधनार्थम् चिन्त्यताम्। |
s-34
| उक्तं च यतः |
s-35
| अनन्तपारं किल शब्दशास्त्रम् स्वल्पं तथायुर्वहवश्च विघ्नाः। सारं ततो ग्राह्यमपास्य फल्गु हंसैर्ययथा क्षीरमिवाम्बुमध्यात् ॥ |
s-36
| अत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गतश्चात्र संसदि लब्धकीर्तिः । |
s-37
| तस्मै समर्पयैतान् । |
s-38
| स नूनं द्राक् प्रबुद्धान् करिष्यति इति। |
s-39
| सः राजा तत् आकर्ण्य विष्णुशर्माणम् आहूय प्रोवाच । |
s-40
| भोः भगवन् मदनुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग् यथानंयषड्दर्शनान् विदधासि तथा कुरु। |
s-41
| अहम् त्वाम् शासनशतेन नियोजयिष्यामि। |
s-42
| अथ विष्णुशर्म तम् राजानम् उच्यते |
s-43
| देव श्रूयताम् मे तथ्यवचनम् । |
s-44
| नाहं विद्याविक्रयं करोमि शासनशतेन । |
s-45
| अहम् तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञानम् न करोमि ततः अहम् स्वनामत्यागम् करोमि। |
s-46
| किं बहुना– |
s-47
| श्रूयतां ममैष सिंहनादः । |
s-48
| नाऽहमर्थलिप्सुर्ब्रवीमि । |
s-49
| ममाशीतिवर्षस्यव्यावृत्तसर्वेन्द्रियार्थस्य न किञ्चिदर्थेन प्रयोजनम्। |
s-50
| किन्तु त्वत्प्रार्थनासिद्धर्थस्य सरस्वतीविनोदं करिष्यामि। |
s-51
| तत् लिख्यताम् अद्यतनः दिवसः |
s-52
| यद्यहं षड्मासाभ्यन्तरे तव पुत्रान्नयशास्त्रं प्रत्यनन्यसदृशान्न करिष्यामि ततो नार्हति देवो देवमार्गसंदर्शयितुम् ।” |
s-53
| अथासौ राजा तां ब्राह्मणस्याऽसंभाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमजगाम । |
s-54
| विष्णुशर्मणापि तान् आदाय तदर्थं मित्रभॆदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशापरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठिताः ते राजपुत्राः। |
s-55
| ते अपि तानि अधीत्य मासषट्केन यथा उक्तह् संवृत्ताः। |
s-56
| ततः प्रभृती एतत् पञ्चतन्त्रकम् नाम नीतिशास्त्रं बालावबोधनार्थम् भूतले प्रवृत्तम्। |
s-57
| किं बहुना |
s-58
| अधीते य इदम् नित्यम् नीतिशस्त्रम् शृणोति च। |
s-59
| सः न पराभवम् आप्नोति स शक्रात् अपि कर्हिचित्॥ |
s-60
| इति कथामुखम्। |
s-61
| अथातः प्रारभ्यते मित्रभेदो नाम प्रथमम् तन्त्र। |
s-62
| यस्यायम् आद्यः श्लोकः |
s-63
| वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने । जम्बुकेनातिलुब्धेन पिशुनेन विनाशितः॥ |
s-64
| तत् यथा श्रूयते। |
s-65
| अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। |
s-66
| पुरन्दरपुरस्य वृद्धिम् सर्वगुणसम्पन्नम् पृथिव्याः चूडामणिरत्नभूतम् |
s-67
| तत्र बभूवुः धर्मोपार्जितभूरिविभवो वर्ध्दमान नाम वणिक्पुत्रः । |
s-68
| तस्मै कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना। |
s-69
| तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । |
s-70
| स्वल्पम् अपि संचीयमानः वल्मीकवत् वर्धते। |
s-71
| अतः प्रभूना द्रव्येण तस्य एव वृद्धिः करणीया। |
s-72
| अलब्धाः अर्थाः लभ्याः लब्धाः परि रक्षणीयाः रक्षिताः विवर्धनीयाः पात्रे सम्पादनीयाः चेति । |
s-73
| लोकमार्गेण अपि रक्ष्यमाणः अर्थः बहु अप द्रवतया सद्यस् विनश्येत्। |
s-74
| अप्रयुज्यमानः प्रयोजनः उत्पत्तिः तुल्यः अप्राप्तस्य इति। |
s-75
| ततः प्राप्तस्य सतः रक्षणे विवर्धने उपयोगे आदि कार्यम्। |
s-76
| यत उक्तं च |
s-77
| नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति। |
s-78
| यत्नेन मतिमांस्तस्मादर्थमेकम् प्रसाधयेत् ॥ |
s-79
| यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। |
s-80
| यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः॥ |
s-81
| स अर्थः पुरुषाणाम् षड्भिरुपायैर्भवति भिक्षया नृपसेवया कृषिकर्मणा विद्योपार्जनेन व्यवहारेण वणिक्कर्मणा वा। |
s-82
| सर्वेषामपि तेषाम् वाणिज्येनातिरस्कृतो'र्थलाभः स्यात्। |
s-83
| तत् वाणिज्यम् सप्तविधमर्थागमाय स्यात्। |
s-84
| तद् यथा गांधिकव्यवहारः , निक्षेपप्रवेशः , गोष्ठिककर्मपरिचितग्राहकागमः , मिथ्याक्रयकथनम् , कूटतुलामानम् , देशांतराद् भांडानयनं चेति । |
s-85
| उक्तं च |
s-86
| दैववशात् उपपन्ने सति विभवे यस्य न अस्ति भोगः इच्छा न च परलोके समीहे स भवति धनपालकः मूर्खः। |
s-87
| एवम् मथुरागामीनि भाण्डान्यादाय शुभायाम् तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। |
s-88
| तस्य मङ्गलवृषभौ सञ्जीवकनन्दकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ। |
s-89
| तयोरएकः संजीवकाभिधानो यमुनाकच्छम् अवतीर्णः संपंकपूरम् आसाद्य कलितचरणो युगभंगं विधाय निषसाद। |
s-90
| अथ तदवस्थमालोक्य वर्धमानः परम् विषादमगमत् । |
s-91
| तदर्थम् स्नेहार्द्रहृदयस्त्रिरात्रम् प्रयाणभङ्गमकरोत् । |
s-92
| अथ तम् विषण्णमालोक्य सार्थिकैरभिहितम् |
s-93
| अथ तदवधार्य सञ्जीवकस्य रक्षापुरुषान् निरूप्या शेषसार्थम् स प्रस्थितः। |
s-94
| अस्माभिः तु सार्थवाहस्य अभीष्ट इति मत्वा वह्निना संस्कृतः। |
s-95
| अथ कदाचित् पिङ्गलकः नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थम् यमुनातटमवतीर्णः |
s-96
| सञ्जीवकस्य गम्भीरतररावम् दूरादेवाशृणोत् । |
s-97
| तौ परस्परम् विचारम् आरब्धौ। |
s-98
| तत्र दमनकः अब्रवीत् |
s-99
| भद्र करटक अस्मत्स्वामी पिङ्गलकः उदकग्रहणार्थम् इतः प्रवृत्तः। |
s-100
| सः अब्रवीत् |